नृसिंह कवचम
नृसिंह कवचम वक्ष्येऽ प्रह्लादनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनं ॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रदायकम । ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितं॥
विवृतास्यं त्रिनयनं शरदिंदुसमप्रभं । लक्ष्म्यालिंगितवामांगम विभूतिभिरुपाश्रितं ॥
चतुर्भुजं कोमलांगम स्वर्णकुण्डलशोभितं । ऊरोजशोभितोरस्कं रत्नकेयूरमुद्रितं ॥
तप्तकांचनसंकाशं पीतनिर्मलवासनं । इंद्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभि: ॥
विराजितपदद्वंद्वं शंखचक्रादिहेतिभि:। गरुत्मता च विनयात स्तूयमानं मुदान्वितं ॥
स्वहृतकमलसंवासम कृत्वा तु कवचम पठेत
नृसिंहो मे शिर: पातु लोकरक्षात्मसंभव:।
सर्वगोऽपि स्तंभवास: फालं मे रक्षतु ध्वनन । नरसिंहो मे दृशौ पातु सोमसूर्याग्निलोचन: ॥
शृती मे पातु नरहरिर्मुनिवर्यस्तुतिप्रिय: । नासां मे सिंहनासास्तु मुखं लक्ष्मिमुखप्रिय: ॥
सर्वविद्याधिप: पातु नृसिंहो रसनां मम । वक्त्रं पात्विंदुवदन: सदा प्रह्लादवंदित:॥
नृसिंह: पातु मे कण्ठं स्कंधौ भूभरणांतकृत । दिव्यास्त्रशोभितभुजो नृसिंह: पातु मे भुजौ ॥
करौ मे देववरदो नृसिंह: पातु सर्वत: । हृदयं योगिसाध्यश्च निवासं पातु मे हरि: ॥
मध्यं पातु हिरण्याक्षवक्ष:कुक्षिविदारण: । नाभिं मे पातु नृहरि: स्वनाभिब्रह्मसंस्तुत: ॥
ब्रह्माण्डकोटय: कट्यां यस्यासौ पातु मे कटिं । गुह्यं मे पातु गुह्यानां मंत्राणां गुह्यरुपधृत ॥
ऊरु मनोभव: पातु जानुनी नररूपधृत । जंघे पातु धराभारहर्ता योऽसौ नृकेसरी ॥
सुरराज्यप्रद: पातु पादौ मे नृहरीश्वर: । सहस्रशीर्षा पुरुष: पातु मे सर्वशस्तनुं ॥
महोग्र: पूर्वत: पातु महावीराग्रजोऽग्नित:। महाविष्णुर्दक्षिणे तु महाज्वालस्तु निर्रुतौ ॥
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुख: । नृसिंह: पातु वायव्यां सौम्यां भूषणविग्रह: ॥
ईशान्यां पातु भद्रो मे सर्वमंगलदायक: । संसारभयद: पातु मृत्यूर्मृत्युर्नृकेसरी ॥
इदं नृसिंहकवचं प्रह्लादमुखमंडितं । भक्तिमान्य: पठेन्नित्यं सर्वपापै: प्रमुच्यते ॥
पुत्रवान धनवान लोके दीर्घायुर्उपजायते । यंयं कामयते कामं तंतं प्रप्नोत्यसंशयं॥
सर्वत्र जयवाप्नोति सर्वत्र विजयी भवेत । भुम्यंतरिक्षदिवानां ग्रहाणां विनिवारणं ॥
वृश्चिकोरगसंभूतविषापहरणं परं । ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणं ॥
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभं । करमूले धृतं येन सिद्ध्येयु: कर्मसिद्धय: ॥
देवासुरमनुष्येशु स्वं स्वमेव जयं लभेत । एकसंध्यं त्रिसंध्यं वा य: पठेन्नियतो नर: ॥
सर्वमंगलमांगल्यंभुक्तिं मुक्तिं च विंदति ।
द्वात्रिंशतिसहस्राणि पाठाच्छुद्धात्मभिर्नृभि: । कवचस्यास्य मंत्रस्य मंत्रसिद्धि: प्रजायते ॥
आनेन मंत्रराजेन कृत्वा भस्माभिमंत्रणम । तिलकं बिभृयाद्यस्तु तस्य गृहभयं हरेत ॥
त्रिवारं जपमानस्तु दत्तं वार्यभिमंत्र्य च । प्राशयेद्यं नरं मंत्रं नृसिंहध्यानमाचरेत ।
तस्य रोगा: प्रणश्यंति ये च स्यु: कुक्षिसंभवा: ॥
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत । मनसा चिंतितं यस्तु स तच्चाऽप्नोत्यसंशयं ॥
गर्जंतं गर्जयंतं निजभुजपटलं स्फोटयंतं हरंतं दीप्यंतं तापयंतं दिवि भुवि दितिजं क्षेपयंतं रसंतं ।
कृंदंतं रोषयंतं दिशिदिशि सततं संभरंतं हरंतं । विक्षंतं घूर्णयंतं करनिकरशतैर्दिव्यसिंहं नमामि ॥
॥इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णंम ॥
॥विष्णुपंजरस्तोत्रं ॥
……………………..
परं परस्मात प्रकृतेर्नादिमेकं निविष्टं बहुधा गुहायाम । सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथं ॥
विष्णुपंजरकं दिव्यं सर्वदुष्टनिवारणम । उग्रतेजो महावीर्यं सर्वशत्रुनिकृंतनं ॥
त्रिपुरं दहमानस्य रहस्यं ब्रह्मणोदितं । तदहं संप्रवक्ष्यामि आत्मरक्षाकरं नृणाम ॥
पादौ रक्षतु गोविंदो जंघे चैव त्रिविक्रम:। ऊरु मे केशव: पातु कटीं चैव जनार्दन: ॥
नाभिं चैवाच्युत: पातुं गुह्यम चैव तु वामन:: । उदरं पद्मनाभश्च पृष्ठं चैव तु माधव: ॥
वामपार्श्वंम तथा विष्णुर्दक्षिणं मधुसुदन: । बाहु वै वासुदेवश्च हृदि दामोदरस्तथा ॥
कण्ठं रक्षतु वाराह: कृष्णश्च मुखमण्डलं ।माधव: कर्णमूलेतु हृषिकेशश्च नासिके॥
नेत्रेनारायणो रक्षेल्ललाटं गरुडध्वज: ।कपोलौ केशवो रक्षेद्वैकुण्ठ: सर्वतोदिशं ॥
श्रीवत्सांकश्च सर्वेशामंगानाम रक्षतो भवेत । पूरवस्याम पुण्डरीकाक्ष आग्नेय्याम श्रीधरस्तथा ॥
दक्षिणे नारसिंहश्च निर्रुत्याम माधवोऽवतु ।पुरुषोत्तमे मे वारुण्याम वायव्याम च जानार्दन: ॥
गदाधरस्तु कौबेर्याम्यैशान्याम पातु केशव: । आकाशे च गदा पातु पाताले च सुदर्शनं ॥
सन्नद्ध: सर्वगात्रेषु प्रविष्टो विष्णुपंजर: । विष्णुपंजरविष्टोऽहं विचरामि महितले ॥
राजद्वारेऽपथे घोरे संग्रामे शत्रुसंकटे । नदिषु रणे चैव चोरव्याघ्रभयेषु च ॥
ढ़ाकिनीप्रेतभुतेषु भयं तस्य न जायते । रक्ष रक्ष माहादेव रक्ष रक्ष जनेश्वर ॥
रक्षंतु देवता: सर्वा ब्रह्म विष्णु महेश्वरा:। जले रक्षतु वाराह: स्थले रक्षतु वामन: ॥
आटव्याम नरसिंहश्च सर्वत: पातु केशव: ।दिवा रक्षतु माम सूर्यो रात्रौ रक्षतु चंद्रमा: ॥
पंथानाम दुर्गमं रक्षेत सर्वमेव जनार्दन: । रोगविघ्नहतश्चैव ब्रह्महागरुतल्पग: ॥
स्त्रीहत्याबालघाती च सुरापी वृषलीपति: । मुच्यते सर्वपापेभ्यो य: पठेन्नात्रसंशय: ॥
अपुत्रोलभते पुत्रं धनार्थी लभते धनं ।विद्यार्थी लबते विद्यां मोक्षार्थी लभते गतीं ॥
आपदो हरते नित्यं विष्णुस्तोत्रार्थसंपदा । यस्त्विदं पठते स्तोत्रम विष्णुपंजरमुत्तमम॥
मुच्यतेसर्वपापेभ्यो विष्णुलोकं स गच्छति। गोसहस्र फलं तस्य वाजपेयशतस्यच ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानव:। सर्वकामं लभेदस्य पठनान्नात्र संशय:॥
जलेऽविष्णु स्थलेऽविष्णुर्विष्णुपर्वतमस्तके । ज्वालामालकुलेऽविष्णु: सर्वं विष्णुमयं जगत ॥
॥ इति चंद्रनारद संवादे वुष्णुपंजरस्तोत्रम ॥
॥नृसिंहस्तव॥
………………….
हयग्रीव संपदास्तोत्र
……………………
श्री श्रीशगुणदर्पणम
या सुगंधास्यनासादिनवद्वाराऽखिलेन या । दुराधर्षा सर्वसस्योदयार्थम या करीषिणी ॥
यानित्यपुष्टा सर्वांंन्गै: सौंदर्यादिगुणैरपि । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियं ॥
मातर्लक्ष्मी नमस्तुभ्यं माधवप्रियमानिनि ।युवां विश्वस्य पितरावितरेरतयोगिनौ ॥
सुमना किल मातस्त्वममुना ततयोगिनी । मम नाथेन देवश्च विमनाश्च न स त्वयी ॥
त्वम वेदमानिनी वेदवेद्य: किल स ते प्रिय: । त्वम मूलप्रकृतिदेवी स चादिपुरूष:किल ॥
यस्त्वामुरसि धत्तेऽम्ब कौस्तुभद्युतिभासिते ।स त्वाम् नैवाच्युत: सर्वस्यात्ययेऽसत्यपि त्यजेत ॥
देवी त्वम् ललनारत्नम् देवोसौ पुरुषोत्तम: । युवाम युवानौ सततम युवयोर्न वयोधिक: ॥
त्वम पद्मिनी पद्मवक्त्रा पद्माक्षी पद्मविष्ठरा । पद्मद्वयधरा पद्मकोशोद्यत्स्तनशोभना ॥
पद्महस्ता पद्मपादा पद्मनाभमन:प्रिया । पद्मोद्भवस्य जननी पद्मा च वरवर्णिनी ॥
अम्बाम पितांबरश्रोणीम लंबालकलसंमुखीम ।बिंबाधरोष्ठीम् कस्तूरिजंबालतिलकाम भजे ॥
रत्नोद्दीप्तसुमांगल्यसूत्राऽवृतशिरोधराम ।कुण्डलप्रभयोद्दण्डगण्डमंडिताम ॥
कूचकंचूकसंचारिहारनिष्कमनोहराम । काञ्चीकिञ्कणिमंजीरकञ्कणाद्यैरलंकृताम॥
सुवर्णमन्डपे रत्नचित्रसिंहासनोत्तमे । नमामि हरिणा साकमिंदिराम् कृतमंदिराम्॥
ब्रह्माद्या विबुधश्रेष्ठाब्रह्मणाद्या: सुरांगना :। याम पुजयंते सेवंते सा माम पातु रमा सदा ॥
सरवालंकारभरितौ सर्वज्ञौ सर्वसद्गुणौ । शर्वादिसर्वभक्तौघसर्वसर्वस्वदायकौ॥
सुमुखौ सुंदरतरौ सुनासौ सुखचित्तनू । सुराराधितपादाब्जौ रमानारायणौस्तुम: ॥
चतुष्कपर्दा या देवी चतुरास्यादिभि: स्तुता । चतुर्वेदोदितगुणा चतुर्मूर्तेर्हरे:प्रिया ॥
घृतप्रतीकाम् ताम् नित्यं घृतपूर्णान्नदयिनीम्। यथेष्टवित्तधात्रीम् च नतोस्म्यभयदाम् श्रियम ॥
वादिराजेन रचितम श्री श्रीशगुणदर्पणम । इमम स्तवम पठन मर्त्या: श्रीमान स्यान्नात्रसंशय: ॥
॥इति श्रीवादिराजपुज्यचरणयतीरचितम श्री श्रीसगुणदर्पणस्तोत्रम ॥
……………………………………
॥यंत्रोद्धारक हनुमत्स्तोत्रं ॥
नमामिदूतं रामस्य सुखदम् च सुरद्रमम । पीनवृत्तमहाबाहूं सर्वशत्रुनिवारणम ॥
नानारत्नसमायुक्तकुन्डलादिविराजितम । सर्वदाऽभिष्टदातारम् सताम् वै दृढमाहवे ।
वासीनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा ।तुंगांभोधितरंगस्य वातेन परिशोभिते ॥
नानादेशागतै: सद्भि:सेव्यमानं नृपोत्तमै: ।धूपदीपादिनैवेद्यै: पंचखाद्यैश्च शक्तित: ॥
भजामि श्रीहनुमंतम हेमकांतिसमप्रभं ।व्यासतीर्थयतींद्रेण पूजितम् च विधानत: ॥
त्रिवारं य: पठेन्नित्यम स्तोत्रम भक्तया द्विजोत्तम: । वांछितम लभतेऽभिक्ष्यणम षण्मासाभ्यंतरे खलु ॥
पुत्राऽर्थी लभते पुत्रम यशोऽर्थी लभते यश: । विद्याऽर्थी लभते विद्याम धनाऽर्थी लभते धनं ॥
सर्वथा माऽस्तु संदेहो हरी: साक्षी जगत्पति: । य: करोत्यत्र संदेहं स याति नरकं धृवम ॥
॥इति श्री व्यासराजविरचितम् यंत्रोद्धारक हनुमत स्तोत्रं ॥
……………………………………………..
॥सरस्वती द्वादशनाम स्तोत्रम् ॥
वाग्वाणी भारती ब्राह्मी भाषा गी: शारदा स्वरा । सरस्वती कामधेनु : वेदगर्भाऽक्षरात्मिका ॥
द्वादशैतानि नामानि सरस्वत्यास्त्रिसंधिशु । जपन् सर्वज्ञताम मेधां वाक्पटुत्वं लभेद्धृवम् ॥
षण्मासान्नि:स्पृहो लब्ध्वालभेज्ज्ञानमविमुक्तिदं ।
॥इति सरस्वती द्वादशनामस्तोत्रं॥
……………………………………………………………
|गरुड़ द्वादशनाम स्तोत्रम् ।
सुपर्णम् वैनतेयम च नागारिम् नागभूषणम ।विषांतकम् शशांकम च आदित्यम विश्वतोमुखं ॥
गरुत्मंतं खगपतीं तार्क्ष्यंम् कश्यपनंदनम । द्वादशैतानि नामानि गरुडस्य महात्मना: ॥
य: पठेत प्रातरुत्थाय सर्वत्र विजयी भवेत । विषं नाक्रमते तस्य न तं हिंसति पन्नग: ॥
संग्रामे व्यवहारे च कार्यसिद्धींम् च मानव: । बंधनान्मुक्तिमाप्नोति यात्रायाम सिद्धिमाप्नुयात॥
कार्यसिद्धीम् कुरुष्वार्य विहगाय नमोस्तुते ॥
॥इति गरुड़द्वादशनाम स्तोत्रम ॥
…………………………………………………..
॥ रुद्र द्वादशनाम स्तोत्रं ॥
प्रथमं तु महादेवं द्वितीयं तु महेश्वरं । तृतीयंशंकरं प्रोक्तं चतुर्थं वरषभध्वजं ॥
पंचमं कृत्तिवासं च षष्टं कामाञ्गनाशनं ।सप्तमम् देवदेवेशम् श्रीकण्ठं चाष्टमम् तथा ॥
नवमम् तु हरं देवं दशमम् पार्वतीपतिं । रुद्रमेकादशंप्रोक्तं द्वादशं शिवमुच्यते॥
एतद्द्वादशनामानि त्रिसंध्यम् य: पठेन्नर:। गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पग: ॥
स्त्रीहत्याबालघातकश्चैव सुरापो वृषलीपति: ।सर्वम् नाशयते पापं शिवलोकं स गच्छति ॥
शुद्धस्फटिकसंकाशं त्रिनेत्रं चंद्रशेखरम् ।इंदुमण्डलमध्यस्थं वंदे देवं सदाशिवं ॥
॥ इति रुद्रद्वादशनाम स्तोत्रं संपूर्णम ॥
|| navagraha stotram ||
Bhasvanme bhasyet tatvam chandrshcha ahlaadkrudbhavet|Mangalomangalam dadhyatbudhascha budhatam dishet||Gururme gurutam dadhyatkavishcha kavitam dishet|shanishcha sham prapyatu ketuh ketum jayerpayet||rahurme rahyedrogam grahah santu kargrahah| navam navam mamaishwaryam dishantvete navagrahah||shane dinamaneh suno svanekgunsanmane|arishtam haramebhishtam kuru ma kuru sankatam|| hareranugraharthaya shatrunam nigrahaya cha vadiraj yatiproktam graha stotram sada pateth||


Kedarnath B Ingale
January 18, 2012 at 23:12
Dear Guruji,
Kindly tell significance of Shri Ganga Dwadash Naam Stotra
thanks
Radhika
October 27, 2011 at 18:55
Shri Hari
Pranam acharya ,
Can vishnu Panjar stotra be recited by women ?
Shri hari
chiraan
October 27, 2011 at 20:12
yes woman can read vishnupanjar stotra
Dinesh
July 24, 2011 at 23:02
Dear Chiraan Ji,
Can the strotras mentioned in this article be recited by Non-Dwijas also?
If so, can we include these strotras with those in new post (Vaishnav strotras for women and Non-dwijas) and recite in same order?
Thanks.
K
July 23, 2011 at 12:09
Pranaams Acharya,
Request you to kindly make this link permanent on right hand pane.
Also kindly add english tags like Vaishnava Stotra Manjari for easy search from the home page and google as well. Currently it is difficult to search for new people.
Regards
K
chiraan
July 24, 2011 at 17:18
link updated in right hand panel …….
posts following will give pooja paddhati for non dwijas …. few more shlokas which can be recited at all times and very powerful in giving results … hope sadhaas will make full use of it
SSS
July 22, 2011 at 22:38
Dear Sir,
Pranams,
Please explain the ‘mahima’ of Shri Hayagriva Stotra, its effect and how to attain siddhi of this mantra.
What is the stotra or worship method to attain success in career and success in other arenas of life? I am a bit worried on account of income and financial security.
Regards,
SSS
AVISHKAR MORE
May 30, 2011 at 11:13
THE LEGINDORY PERSON OF KARN PLEASE TELL ME HOW TO CREATE MAHABHARATA THE REAL HISTORY N TELL ABOUT KARNA
jannat
May 29, 2011 at 18:29
Guruji how many times must i recite Hanuman Stotra daily?
karthik
April 17, 2011 at 14:34
poojaneeyamaina gurugariki,
does the stuti,kavach come under the category of stotra?
chiraan
April 17, 2011 at 20:10
kavach is little higher than stotra , some kavachas have anga nyasa kar nyasa .
subhavaaruni rao
February 13, 2012 at 13:02
Pranams Guruji ,
I am very much interested in reciting Dhruva Charitre,since it comes in Bhagavatha I m not sure whether women are allowed to recite. If yes can you upload Dhruva charitre?
Narayanasmaranegalu
Subhavaaruni Rao