Hitherto Unknown Secrets !

ॐ ॥ देवताकार्य सिद्धयर्थं सभास्तंभसमुद्भवम् । श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

लक्ष्म्यालिञ्गितवामाँगं भक्तानाम् वरदायकं ॥ श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

आंत्रमालाधरं शंखचक्राब्जायुधधारिणं । श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

स्मरणात्सर्वपापघ्नं कद्रूजविषनाशनं । श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

सिंहनादेन महता दिग्दन्तिभयनाशनम् । श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

प्रह्लादवरदं श्रीशं दैत्येश्वरविदारणं । श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

क्रूरगृहैः पिडीतानां भक्तानामभयप्रदं । श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

वेदवेदांतयज्ञेशं ब्रह्मरुद्रादिवंदितम् । श्रीनृसिंहं महावीरं नमामि ‍‍‍‌‌‌‌‌‌‌‌‌रूणमुक्तये ॥

य इदं पठते नित्यमृणमोचनसंज्ञितम् । अनृणी जायते सद्यो धनं शीघ्रमाप्नुयात् ॥

………………………………………………………………………………………………………………

लक्ष्मीद्वादशनाम स्तोत्र

श्रीदेवी प्रथमम् नाम द्वितीयममृतोद्भवा । त्रितीयम् कमला प्रोक्ता चतुर्थम् सुरसुंदरी ॥

पंचमम् देवगर्भा च षष्ठं च मधुसूदनी । सप्तमम् तु वरारोहा अष्टमम् हरिवल्लभा ॥

नवमम् शार्ञ्गणी प्रोक्ता दशमम् देवदेवता । एकादशम् तु लक्ष्मी : स्यात द्वादशम् भुवनेश्वरी ॥

एतद् द्वादश नामानि त्रिसंध्यम् य: पठेन्नर: । आयुर्ारोग्यमैश्वर्यमतिपुण्य फलप्रदम् ॥

द्विमासम सरवकार्याणि षणमासाद्राज्यमेव च । संवत्सरम् तु पूजाया: श्रीलक्ष्म्या: पुज्य एव च ॥

लक्ष्मीम क्षीरसमुद्रराजतनयाम् श्रीरंगधामेश्वरीम् । दासिभूतसमस्तदेववनिताम् लोकैकदीपांकुराम् ॥

श्रीमन्मंदकटाक्षलब्धविभवब्रह्मेंद्रगंगाधराम् । ताम् त्रैलोक्यकुटुम्बिनीम सरसिजाम् वंदे मुकुंदप्रियाम ॥

॥इति लक्ष्मीद्वादशनााम स्तोत्रम् ॥

—————————————————————————————–

अवतारत्रयस्तोत्रम्

ॐ ॥ मध्वहृत्कमलस्थितम् वरदायकं करुणाकरं लक्ष्मणाग्रजमक्षयं दुरितक्षयं कमलेक्षणम् ।

रावणांतकमव्ययं वरजानकीरमणं विभुं अंजनासुतपाणिकञ्जनिषेवितं प्रणमाम्यहम् ॥

पालयस्व निपालयस्व निपालयस्व रमापते वादिरामुनींद्रवंदित वाजिवक्त्र नमोऽस्तु ते ।1।

देवकीतनयं निजार्जुनसारथिम् गरुडध्वजं पूतनाशकटासुरादिखलान्तकं पुरुषोत्तमम् ।

दुष्टकंसनिमर्दनम् वररुग्मिणीपतिमच्युतम् भीमसेनकराम्बुजेन सुसेवितम् प्रणमाम्यहम् ॥

पालयस्व निपालयस्व निपालयस्व रमापते वादिरामुनींद्रवंदित वाजिवक्त्र नमोऽस्तु ते ।2।

ज्ञानमुक्तिसुभक्तिदं वरबादरायणमव्ययं कोटिभास्करभासमानकिरीटकुण्डलमण्डितम् ।

वाक्सुदर्शनतः कलेः शिरघातकं रमया युतं मध्वसत्करकञ्जपूजितमक्षयं प्रणमाम्यहम् ॥

पालयस्व निपालयस्व निपालयस्व रमापते वादिरामुनींद्रवंदित वाजिवक्त्र नमोऽस्तु ते ।3।

 

सर्पराजस्तुति ः

फणाष्टदलशेखरम्  धृतसुवर्णपुंजप्रभम् सवज्रवरभूषणम् नवसरोजरक्तेक्षणम् । सुवर्णमुकुटोज्ज्वलम सकलवांछितार्थप्रदम् नमामि शिरसा सुरासुरनमस्कृतम् वासुकीम् ॥ सहस्रवक्त्रम् द्विसहस्र जिव्हाम् पिशंगनेत्रम् कपिलाशुकाद्यम । विषायुधम् प्रोज्ज्वलदंष्ट्रबाहुंतम् नागराजम् प्रणतोस्मि नित्यम् ॥ सहस्रशीर्षम् जगदेककुंडलम् पीतांबरम् धूम्रसहस्रलोचनम् । उदारवीर्यम् विषदंष्ट्रकाननम् नमाम्यनंतम् भुवनैकनाथम् ॥

सुब्रह्मण्यद्वादशनाम

शृणु पुत्र प्रवक्ष्यामि नराणामिष्टदम् परम् । सुब्रह्मण्यद्वादशनामस्तोत्रम् शुभप्रदम् ॥ प्रथमम् स्कंद इत्युक्तः शक्तिधारी द्वितियकम् । हेमचूडस्तृतीयम् तु भद्रसेनश्चतुर्थकम् ॥ भवानीजः पंचमम् तु भवपुत्रश्च षष्ठकम् । अन्नदानादिशीलश्च सप्तमम् कुक्कुटध्वजः ॥ अष्टमम् नवमम् चाथ मयूरवरवाहनः ॥ दशमम् च गुहः प्रोक्तो देवसेनापतिस्तथा ॥ एकादशम् द्वादशम च महासेनः प्रकीतितः । द्वादाशैतानी नामानि षण्मुखस्य महात्मनः ॥ त्रिकालम् यः पठेनित्यम सर्वाभिष्टमवाप् नुयात । सर्पबाधाप्रशमनम्सर्वसिद्धिकरम् शिवम् ॥ गृहपीढ्ाहरम् व्याधिदुःखदोषनिवारकम् ॥ गोप्यादगोप्यतरम् स्तोत्रम् त्वयि स्नेहात्प्रभाषितम् ॥

 

Comments on: "Runamochana stotra & Avataartraya stotram !" (16)

  1. Nagendra said:

    Hare Srinivasa,

    I feel really blessed to go through this site. Content which gives more than contentment in life.

    Samsaarigalada naavu namma nitya samsaarigala margadinda Saadhaneya kadege kare doyyuva simple madhvacharyara adbhuta tips.

    Nimma nishkaamakaramkke anata vandanegalu. Edu nimmamele Hari vayugurugala anurahabala eshtembudakke sanna nidarshana.

    Request you to provide your contact details.

    Nagendra

    Like

Dear Readers , If you are asking a query , Kindly do not forget to worship SRIMAN NARAYANA and HANUMANJI and then write a number within 1800 followed by single digit number [ within 1-8 ] ,kindly Give time and current Place where you are asking query from ! , followed by number of virtual beetle leaves ,nuts and fruits you would like to give astrologer , and clear place ,time and date of birth . [take your hands off keyboard ] TOUCH a BODY part and kindly mention which part of the body Your hand is touching [ sprishtanga ] .... state your problem clearly , let us know what is it that your are looking for without ambiguity ! start and end with salutation to HARI ! If above procedure is not adhered to ,then no answers will be given !

Tag Cloud